|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.115. अध्यायः 115
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति विषुवाख्यपुण्यकालस्य महिमानुवर्णनपूर्वकं तत्र दानादिप्रशंसनम्॥ 1 ॥ तथा गायत्रीजपमाहात्म्यकथनम्, अश्वत्थमाहात्म्यकथनं च॥ 2 ॥ तथा नानाधर्मकथनपूर्वकं शिंशुमाराकृतिनिरूपणम्, पञ्चगव्यविधानकथनं च॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः।
पप्रच्छ दानकालस्य विशेषं च विधिं नृप॥ 14-115-1(96731)
युधिष्ठिर उवाच। 14-115-2x(8005)
देव किं फलमाख्यातं विषुवेष्मवरेश्वर।
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम्॥ 14-115-2(96732)
भगवानुवाच। 14-115-3x(8006)
शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च।
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम्॥ 14-115-3(96733)
राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते।
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप॥ 14-115-4(96734)
ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत्।
क्रियाकरणकार्याणामेकीभावत्वकारणात्॥ 14-115-5(96735)
अस्माकमेकीभूतानां निष्कलं परमं पदम्।
तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम्॥ 14-115-6(96736)
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम्।
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम्॥ 14-115-7(96737)
देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा।
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा॥ 14-115-8(96738)
सोमादयो ग्रहाश्चैव सरितः सागरास्तथा।
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः॥ 14-115-9(96739)
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः।
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः॥ 14-115-10(96740)
अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च।
गृहमायतनं धान्यं वाहनं शयनं तथा। 14-115-11(96741)
यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर।
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः॥ 14-115-12(96742)
तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते।
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम्॥ 14-115-13(96743)
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा।
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु॥ 14-115-14(96744)
दशजन्मकृतं पापं तस्य सद्यो विनश्यति।
दशानामश्वमेधानामिष्टानां लभते फलम्॥ 14-115-15(96745)
विमानं दिव्यमारूढः कामरूपी यथासुखम्।
स याति मामकं लोकं रुद्रलोकमथापि वा॥ 14-115-16(96746)
तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम्।
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते॥ 14-115-17(96747)
ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः।
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत्॥ 14-115-18(96748)
चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा।
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा॥ 14-115-19(96749)
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि।
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु॥ 14-115-20(96750)
गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः।
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत्॥ 14-115-21(96751)
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते।
तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति॥ 14-115-22(96752)
महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम।
निष्पापस्तत्क्षणादेव तेन दानेन जायते॥ 14-115-23(96753)
चन्द्रसूर्यप्रकाशेन विमानेन विराजता।
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः॥ 14-115-24(96754)
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह।
तावत्कालं स रजेन्द्र सोमलोके महीयते॥ 14-115-25(96755)
ततश्चापि च्युतः कालादिह लोके युधिष्ठिर।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्॥ 14-115-26(96756)
युधिष्ठिर उवाच। 14-115-27x(8007)
भगवंस्तव गायत्री जप्यते च कथं विभो।
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर॥ 14-115-27(96757)
भगवानुवाच। 14-115-28x(8008)
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा।
अयने श्रवणे चैव व्यतीपाते तथैव च॥ 14-115-28(96758)
अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च।
जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप।
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः॥ 14-115-29(96759)
युधिष्ठिर उवाच। 14-115-30x(8009)
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम्।
एतत्कथय मे देव परं कौतूहलं हि मे॥ 14-115-30(96760)
भगवानुवाच। 14-115-31x(8010)
अहमश्वत्थरूपेण पालयामि जगत्त्रयम्।
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः॥ 14-115-31(96761)
यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति।
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति॥ 14-115-32(96762)
यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः।
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम्॥ 14-115-33(96763)
व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते।
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा॥ 14-115-34(96764)
पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा।
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते॥ 14-115-35(96765)
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम्।
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते॥ 14-115-36(96766)
मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम्॥
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते॥ 14-115-37(96767)
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा।
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः॥ 14-115-38(96768)
कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते॥ 14-115-39(96769)
गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते।
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम्॥ 14-115-40(96770)
क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ 14-115-41(96771)
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा।
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते॥ 14-115-42(96772)
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः।
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः॥ 14-115-43(96773)
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत्।
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः॥ 14-115-44(96774)
क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः।
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते॥ 14-115-45(96775)
आत्मा नदी भारतपुण्यतीर्थ-
मात्मा तीर्थं सर्वतीर्थप्रधानम्।
आत्मा यज्ञः सततं मन्यते वै
स्वर्गो मोक्षः सर्वमात्मन्यधीनम्॥ 14-115-46(96776)
आचारनैर्मल्यमुपागतेन
सत्यक्षमानिस्तुलशीतलेन।
ज्ञानांबुना स्नाति हि नित्यमेवं
किं तस्य भूयः सलिलेन तीर्थम्॥ 14-115-47(96777)
युधिष्ठिर उवाच। 14-115-48x(8011)
भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम्।
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि॥ 14-115-48(96778)
भगवानुवाच। 14-115-49x(8012)
रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम्।
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते॥ 14-115-49(96779)
पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना।
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत्॥ 14-115-50(96780)
प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु।
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम्॥ 14-115-51(96781)
पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन्।
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते॥ 14-115-52(96782)
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा।
प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ॥ 14-115-53(96783)
सलिलेन तु यः स्नायात्सकृदेव रविग्रहे।
तस्य यत्संचितं पापं तत्क्षणादेव नश्यति॥ 14-115-54(96784)
मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर।
गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने।
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति॥ 14-115-55(96785)
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम्।
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति॥ 14-115-56(96786)
ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर।
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ॥ 14-115-57(96787)
हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ।
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत्॥ 14-115-58(96788)
मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः।
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः॥ 14-115-59(96789)
अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः।
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः॥ 14-115-60(96790)
विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु।
तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम्॥
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक्। 14-115-61(96791)
मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति॥
पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत। 14-115-62(96792)
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम्।
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम्॥ 14-115-63(96793)
गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि॥ 14-115-64(96794)
तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम्।
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि॥ 14-115-65(96795)
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु॥ 14-115-66(96796)
उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु।
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते॥ 14-115-67(96797)
भद्रं न हति यः पादं पठन्नृक्सहितां तदा।
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति॥ 14-115-68(96798)
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः।
न पापेन स लिप्येत पद्मपत्रमिवांभसा॥ ॥ 14-115-69(96799)
इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि वैष्णवधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः॥ 115 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|